________________
(१२० )
न्यायसिन्धौ.
संसर्गता त्रुटिमतेरनुरोधतस्तु कल्प्यैव नात्र विषयेऽन्यगतिस्तवास्ति ॥३८॥ संयोगिनो हि समवायबलान्न चाणोरूपस्य चाक्षुषमतिबंध येन तस्मात् ॥ संयोगिनो भवति योग्यतया निवेशो
नोभिन्नजीवपरिकल्पनतो गुरुत्वम् ॥६४९॥ शालूकगोमयभवावपि वृश्चिको न
वैचि यतोऽत्र भवतस्तु समानजातो ॥ शालूकतोऽथ च न गोमय इष्यते वा
वैजात्ययोग्यऽपि च पोद्गलिकत्वभावात् ॥६५०॥ अभ्यासशुक्ररसयोगजचेतनासु
वैजात्यमण्वपि न च प्रतिपद्यते ज्ञैः॥ तत्कारणेषु तु तथा तव सम्मतेषु साजात्यमस्ति न च बोधजडत्वभेदात् ॥६५१ अभ्यास एव नियतो ननु तेष हेतु
न्नों शुकशोणितरसायनसेवनादिः ॥ दृष्टो यतो यमलयोस्तु रसायनादेः ।
साम्येऽपि तेन जनितोऽत्र मतेः प्रकर्षः॥६५॥ कस्मिंश्चिदेकविषयेऽभ्यसनेन शास्त्रे
शास्त्रान्तरे भवति यन्मतिपाटवादिः ॥ तेनापि सिद्धपति बटोरपरप्रयत्ना
बुद्धिविनाऽप्यनुपमाऽभ्यसनप्रकर्षात् ॥६५३॥