________________
॥ चार्वाकमतखण्डनम् ॥
( ११९)
भोगोद्भवो नियमतस्सुखदुःखभावे तत्तद्वयं तव मतं यदि बोधमात्रे ॥ जात्यैकयाsनुगतया प्रतिबन्धकंतदुत्तेजकं च कथितप्रतिबन्धकेऽथ ॥१४३॥ किं लघवादनुमितिव्यतिरिक्ततां त्वं त्यक्त्वा न कल्पयसि मानसबोधमात्रे ॥ पूर्वोक्तयुक्तिबलतः प्रतिबन्धकत्वं तस्वेऽनुमा किमु न मानसबोधभिन्ना ॥ ६४४ ॥ एतेन यैरनुमितिव्यतिरिक्त एव भोगान्यमानसभवेऽनुगतान्तु जातिम् ॥ स्वीकृत्य तद्वति मतं प्रतिबन्धकत्वं तेषां मतं भवति गौरवतो निरस्तम् ॥ ६४५॥ आत्मत्वजातिरिह देहगता यदि स्यात्
किं चक्षुषा भवति नात्ममतिस्तु तत्र ॥ ज्ञानादिकञ्च परदेहगतन्न कस्माद् रूपादिवन्नयनतः स्फुटमेव भाति ॥६४६ ॥ स्वात्मप्रकाश इह जैनमते प्रमाता, संयोगकल्पनभवा गुरुता न चास्ति ॥ न प्राप्य कार्यभिमतं नयनं मनश्च सम्बन्ध इन्द्रियभवे निखिले न हेतुः ॥६४७॥
नापेक्ष्य गौतममतञ्च तथा लघुत्वं तत्प्रक्रियात इह यन्नियमेन तस्य ॥