SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ न्यायसिन्धौ. अभ्यत्र दृष्टविषयस्य यदन्यदेशे ज्ञानं भवेद् भ्रममतिस्तु तदेव यस्मात् ॥ ६३७॥ एवं स्थिते त्वनुमितित्वमतिर्यथार्था कुत्रापि चेत्तव मताऽनुमितिस्तदास्ति ॥ नो चेदनुव्यवसितावसतस्तु तस्य भानं कथं भवितुमर्हति हेत्वभावात् ॥ ६३८ ॥ अध्यक्षतोऽपि तव बोधगता न सिद्ध्येत् किञ्चासतोऽप्युपगते मतिगोचरत्वे ॥ तस्यास्त्वनुव्यवसितौ न कथन्तथैवासत्ख्यातितो भवति भानमिहाक्षवोधे ॥६३९॥ नो निर्विकल्पकमत्तिस्स्वत एव सिद्धा स्वप्नेऽपि भाति ननु येन तयैव सिद्धयेत् ॥ प्रत्यक्षता स्वनियता किमु शून्यता नो सिद्धयेच्च कल्पनमते भ्रमतामते ते ||६४० ॥ नो मानसत्वनियताऽनुमितित्वजाति (११८) र्व्याप्तिग्रहोद्भवमतौ नियमेन भावात् ॥ स्यादन्यथा घटपटाद्यपि मानसेऽस्मिन् सामान्यहेतुबलतः किमु नैव भास्यम् ॥ ६४१॥ तद्व्याप्यवत्त्वविषया मतिरन्यबोधे त्वत्सम्मतेह प्रतिबन्धकभावतश्चेत् ॥ वोधस्सुखादि विषयोऽप्यनुमानहेतो सत्त्वे कथं भवतु मानस इष्यते यत् ॥ ६४२ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy