________________
(११४)
न्यायसिन्धौ.
तस्मात् कथं कथय ते व्यभिचारशङ्का स्यादन्तरानुमितिमज्ञ परोक्षभावे ॥६१५॥ नो पञ्चलक्षणमिहानुमतन्तु लिङ्गं
नो वा त्रिलक्षणमथानुपपन्नता या ।। साध्यं विना भवति हेतुगता तु सैका सद्धेतुलक्षणमतो न च दोषपोषः ॥६१६॥ सा कार्यकारणबलादुत वा स्वभावाकि वान्यतः क्वचिदपि प्रथिता यदि स्यात् ॥ लोकप्रवृत्तिविरहादिप्रसङ्गतर्का
जय्या तदा नहि बिभेति च शङ्कया ते ॥६१७॥ प्रत्यक्षतोऽनुमितितोऽथ च शाब्दतो वा व्याप्तिग्रहो न च मतो बुध जैनतन्त्रे ॥ तत्खण्डनन्निखिलमेव सहायकन्नो
वंशेन तेऽपि हृदि पल्लविता जिनोक्तिः ॥६१८॥ तर्कात्मकस्सकलसाध्यसमग्रहेत्वा.
क्षेपेण मोनमिह जैनमतानुगानाम् ॥ व्याप्तेर्मतावलमयं श्रुतिगोचरः किं
जातः कदाचिदपि ते न गुरोस्सकाशे ॥६१९॥ शब्दप्रवृत्तिरिह चेयदि गौणवृत्त्या
नैतावता भवति बाधितगोचरस्वम ॥ नो तं विना भ्रममतिस्वमुपेयमस्या येन प्रमात्वमविगीततया न सिद्धयेत् ॥२०॥