________________
॥ चावाकमतखण्ढनम्'
(११३)
तत्राहमित्यधिगतिन शरीरतोऽस्ति यस्मात् तमस्यपि महानिबिडे रजन्याम ॥ देहप्रबोधविरहे नयनादितोऽस्या
भावो जनैः स्वविदितो निरपह्नतोऽस्ति ॥६१०॥ नेत्रायजन्यविषयखवतस्त्वहन्त्वं
स्वाभाविकं भवति नो नयनादियोग्ये ॥ किन्त्वोपचारिकमतो व्यतिरिक्त यात्माऽहन्त्वप्रतीतिविषपो न शरीरमेवम् ॥१२॥ अत्यन्तसन्निधजने निजकार्यनिष्ठे दृष्टाहमित्यधिगतिननु लौकिकानाम् ॥ देहे स्वभोगजनकत्वबलात् तथैवा
हन्त्वप्रतीतिरुपपद्यत एव पुंसाम् ॥६१२।। तस्मान्न सुख्यहमिति प्रमितिम॒षार्था गौरोहमित्यधिगतरुपतास्तव ॥ आत्मा ममायमिति केवलमुक्तिलासो
देहे स्वयं भवति वस्तुत एव वोधः ॥६१३॥ व्याप्त्यग्रहादनुमितिन्न परात्मनश्चेद्
धूमाद्भुताशनमतिस्तव किन्निमित्ता ॥ नैवानुमानमिह सम्मतमित्यवाच्यं पूर्वोक्तदोषगणभीतिमता त्वया तु ॥६१४॥ देशान्तरन्तव मते न गृहीतमक्षैः कालान्तरन्न तव भूतविविक्तिमस्ति ।