________________
न्यायसिन्धौ.
( ११२ )
चार्वाक तत्तदुभयन्तव सम्मतन्न दृष्टान्तभावममलं प्रतिपद्यतेऽत्र ॥ ६०४ ॥ नो शक्तितो भवति चेतनता मते ते प्रत्येक भूतपरमाणुगता यतस्सा ॥ दृश्या न चास्ति न च तद्व्यतिरिक्ततायां प्रत्यक्षमानमपरन्तव सम्मतन्न ॥ ३०५ ॥ शक्तिश्च चेतनतया यदि सा विभिन्ना सम्बन्ध एव भविता न तयोस्तदानीम् ॥ तादात्म्यमेव यदि तेऽनुमतन्तयोस्तत्
प्रत्येकशो भवतु चेतनताप्रकाशः ||६०६ || नायोग्य मिष्टमिह शृङ्गमतो यदि स्यात्
तद्वै शशे किमु न तन्मतिरक्षजा तत् ॥ प्रत्यक्षबोधविरहाच्च ततो न तस्य सद्भावसिद्धिरियमेव गतिर्न जीवे ||६०७ ॥
दृष्टे -
आत्मा परो न च परस्य हि
योग्यस्ततो विशदबुद्धिचरो न चान्यैः ॥
सर्वज्ञबोधविषयास्तु समस्तभावा
स्तत्रात्मनोऽपि निखिलस्य कथन्न भानम् ६०८
चेष्टादिलिङ्गजनिता मितिरस्मदादे
मनं परात्मविषयाऽपि च चर्मदृष्टेः ॥ स्वात्मा स्वसंविदितबोधत एव साक्षात् सिद्धो न चान्यदिह मानमपेक्षते नः ॥ ६०९ ॥