________________
॥ चर्वाकमतखण्डनम् ॥
(१११)
किञ्च प्रसिद्धिपदवीन्न गुरुस्तवापि, शब्दानुमानप्रमिती विरहय्य याति ॥ शाब्दप्रमाणमुररीकृरु लोकदृष्ट्या - प्यास्था गुरोरपि मते तव तद्विना नो ।। ५९९॥
देहस्वरूपपरिणामबलेन भूता
न्येवास्ति चेतनमिति प्रतिपादितं यत् ॥ तत्रापि किं स च ततो व्यतिरिक्त इष्टोभिन्नोऽथवा न प्रथमस्तव सम्मतोऽस्ति ॥ ६०० ॥ तत्त्वे वृहस्पतिविलोकिततत्त्वसंख्यालोपोsधिकस्य वचसा च तवैव प्राप्तेः ॥ पक्ष द्वितीय इह ते यदि सम्मतस्तत् किन्नो घटादिषु भवेदविशेषतस्तत् ॥ ६०१ ॥ नो मोदकाद्यपि हविर्गुडकाद्यभिन्न
मेकान्ततो जिनमते प्रथितं परन्तु ॥ भिन्नस्वभावगमनाद्व्यतिरिक्ततावत्
स्याद्वादतो भवति भिन्नमभिन्नमेभिः ||६०२ ॥
प्रत्येकवृत्तिरिह चापि न चेद्रसादि
यतो भवति तर्हि कथं प्रकृष्टः ॥ यद्धविर्गुडकणिक्कसमुद्भवस्स तद्वत्कथन्न तिलरेणुजलादिभिस्सः ||६०३॥ मद्ये न मादनफलो समुदाय्यभिन्ने भिन्नेऽपि किन्तु समवैति मतेऽत्र शक्तिः ॥