________________
न्यायसिन्ध
शास्त्रेऽपि लौकिकपरीक्षकयोर्विशेषो नो कश्चिदत्र विबुधैरवलोकितो यत् ॥ ५९३ ॥
( ११० )
AAJ
प्रामाण्यलक्षणमवाधितगोचरत्वं संवादितेति तवसम्मतमेतदेव ॥ प्रामाण्यसाधकतयाऽक्षभवे तु बोधे तत्रानुमाऽभ्युपगमोऽरुचितोऽपि किन्नो ।। ५९४ ॥
शब्दार्थयोश्च समयग्रहसव्यपेक्षोबुद्धस्वभाव इह वाचकतादिरूपः ॥ संसर्ग आर्हतमते प्रमितोऽस्ति किन्नो आप्तागमोऽपि तव येन न च प्रमाणम् ॥ ५९५॥ सर्वज्ञसिद्धिरिह दर्शितनीतितस्ते
मान्यैव तद्वचनतः प्रतिपादिता ये स्वर्गादयो नहि भवन्ति च तेऽप्यसत्याः प्रत्यक्षगोचरचराः परमस्य पुंसः ॥ ५९६ ॥
यथागमो न च भवेत्तव मानमिष्टं
astra नहि परस्य भवेत्प्रमार्थे ॥ नो वा परोक्तवचनात्तव बोधलेशो लोके कथाsपि च परेण निरर्थिका ते ॥ ५९७॥ शास्त्रनिरर्थकतयैव गुरुप्रणीतं -
वाच्यन्न कैश्चिदपि तत्त्वमतावहेतु ॥ प्रेक्षावताऽपि गुरुणा स्वयमेव प्रेक्षाकारित्वमात्मनियतं विफलीकृतं किम् ॥ ५९८ ॥