________________
॥ चानीकमतखण्डनम्
आत्माऽन्तिमे वद तवापि कथन्न सत्योप्रत्यक्षगोचरचरोऽपि मृषा प्रलापिन् ॥ व्याप्ता व्यवस्थितिरियं किमु मानतो वा मेयस्य किन्तु तव नैव मतेऽस्ति विद्वन् । ५८८ आधेऽनुमानमपि किन्न करोषि चित्ते
भङ्गयन्तरेण वचसा प्रतिपादितं यत् ॥ अन्त्ये कथन्न शशशृङ्गमपि प्रमेयं सिद्धबृहस्पतिमतन्तु ततो विचित्रम् ॥ ५९९ ॥ स्वाध्यक्षबोधविगमात् किमु नास्ति जीवो देहाद्विविक उत वा निखिलैरदृष्टेः ॥ आधे स्वकीयनयनाद्यपि नैव सिद्धेधदन्धस्य ते किमु घटाद्यपि सिद्धिमेतु ॥ ५९० ॥ प्रत्यक्षतो नहि कदाचिदपि क्वचिद्वा
(१०९)
कैश्चित्तनोस्वगतो व्यतिरिक्त आत्मा || एवन्तवाभिलषितोऽन्तिमकल्प एषा
बुद्धिर्मता जनितात परैव काचित् ॥ ५९१ ॥ कल्पो न चाद्य इह तेऽभिमतो यतो नो नेत्रादिकस्य विषया व्यवधानभाजः ॥ अन्त्ये परोक्षमतिरेव भवेत्ततस्ते
मान्याऽनुमाऽपि च मते किमु नैव विद्वन् ५९२
या लौकिकैरुपगताऽनुमितिर्यथार्था लोकप्रवृत्तिचतुरा तत्र सम्मता सा ।।