________________
न्यायसिन्धौ.
(१०८)
आत्माऽस्ति नेति न निषेधविधानमेवं यद्यस्ति तत्र तव किन्तु किमस्ति मानम ५८२
सर्वत्र तेन बुध पर्यनुयोगमात्रं कृत्वा बृहस्पतिरमन्दमतिप्रभावात् ॥ ध्यान्ध्यं विमूढजनचित्तसमाश्रितन्तु स्वर्गादिखण्डनगिराऽनयदन्तधाम ॥५८३ ॥ चार्वाकबाललपितं गुरुगौरवेण मान्यं भवेदनुपसेवितसद्गुरूणाम् ॥ एतद्वचो न च जिनागमतत्त्वनिष्ठाकाष्ठाविशुद्धमनसां पुनराहतानाम् ॥ ५८४ ॥
चार्वाकमन्दमतयो हि परात्मसंस्था अज्ञानसंशयविरुद्धमतीरनक्षाः ॥
ज्ञात्वेन्द्रियैन्न प्रभविष्णव आढधाना बुद्धि यथार्थविषयामपनेतुमेते ॥ ५८५ ॥ स्वर्गादिकञ्च जिन गौतमतन्त्र विज्ञरिटकिकमिति प्रमितन्त्वया यत् ॥ तन्नाक्ष प्रमितितो नयनाद्ययोग्यं चेष्टादिलिङ्गजनितानुमितेः परन्तु ॥ ५८६ ॥ अध्यक्षगोचरतया नियमोऽस्ति नो वा
य इहाप्रशस्यः ॥
सत्त्वस्य तेऽभिमत यस्मात्तथा सति तवापि मते प्रमाणं
प्राप्तं भवेदनुमितेर्जनकं विविक्तम् ॥ ९८७ ॥