SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ॥ चार्वाकमतप्रदर्शनम् ॥ नो कार्यकारणसमाश्रयणेन कोऽपि कार्यों विचार इह तर्कवितर्कदक्षैः ॥ नो वस्तुतो गुरुमतेऽनुमतः कयोश्चि द्यत्कार्यकारणतया नियमेन बन्धः ॥५७७॥ प्रत्येकशो घटपटादिषु वर्तते नो त्रित्वादिकं पुनरिदं समुदायवृत्ति ॥ तदन्न भूमिजलवह्निमरुत्स्वपि स्यात् प्रत्येकशश्च किमवृत्त्यपि चेतनत्वम् ॥५७८॥ कुम्भादिभावमिह योग्यमवाप्य दृश्योऽदृश्योऽपि चाणुनिकरस्समुदाय्यभिन्नः ॥ देहस्वभावमवलम्ब्य तथैव किन्न भूतानि चेतनतया परिणामवन्ति ॥५७९॥ मुक्तात्मनां विबुधगौतमतन्त्रसिद्धो ज्ञानादिकस्य विरहोऽपि यथा तथैव ॥ प्राणादियोगविगमे ननु चेतनाया देहे लयोऽपि मृतके गुरुतन्त्रसिद्धः ॥५८०॥ श्रात्मप्रसिद्धिजनकं न यथाऽत्र मानं तदाधकञ्च न तथैव विभाति मानम् ॥ यस्मादिचोरकतयाऽक्षजबोध इष्टो नाप्तेस्तु यद्यपि तथापि भवेत् प्रसङ्गः ॥५८१ ॥ यद्यतितस्य शशशृङ्गनिषेधनेऽपि तस्यैव यद् भवति वृत्तिरवाधितस्य ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy