________________
(१०६)
न्यायसिन्धौ.
संयोगिनो हि समवायत एव देहे नेत्रादिना मतिरुदेष्यति तार्किकाणाम् ॥ ५७१॥ शालूकतो भवति गोमयतोऽपि जन्म शालूकजातिनियमेऽपि च वृश्चिकानाम् ॥ ज्ञानैकजातिनियमेऽपि विभिन्न जाते
तोर्भवेत् किमु न बुद्धिजनिस्तथैव ॥५७२ ॥ पित्रोः कदाचिदिह शुक्ररजस्समुत्थो
बोधो रसायन प्रयोगभवः कदाचित् ॥ अभ्यासतो भवति सोऽथ च तेन नात्मा देहात् पृथक्तव प्रसिद्धिमुपैति युक्तया ॥ ५७३ ॥
प्रज्ञादिकं प्रतिदिनञ्च शरीरवृद्धया प्राप्तप्रकर्षमिह सर्वजनप्रसिद्धम् ॥
दृष्ट्वापि देहगुणतां यदि तस्य नैव
मन्ता तदा भवतु तस्य तु को विपक्षः || ५७४॥ बालस्य जन्मसमयेऽपि च दुग्धपाने, वृत्तिस्स्वभावबलतो न च वासनातः ॥
शङ्का न तत्र विदुषां खलु युज्यतेऽर्थे स्वाभाविकी हि बहुधा जगतो व्यवस्था ॥ ५७५
शीतं जलं कथय केन कृतन्तथाग्निरुष्णस्वभाव इह केन विनिर्मितोऽभूत् ॥ आकर्षणानुगतशक्तिरयोमणीनां
कस्मादभून्न च तथा प्रकृते वितर्कः ॥ ५७६ ॥