________________
॥ चार्वाकमतप्रदर्शनम् ॥
( १०५)
लोके तु धूममतितो गिरिगहरे या धूमध्वजावगतिरस्ति न सानुमाख्या ॥ सम्भावना भवति किन्त्वथवा स्मृतिस्सासंसर्गभानविकला व्यवहारयोग्या ॥ ५६६ ॥
यच्चास्त्यनुव्यवसितावनुमात्वभानमस्यास्ततो भवति नानुमितित्वसिद्धिः ॥ यस्मादसम्मतिबलादुपनीतमेवासत्ख्यातिबोधविषयोऽनुमितित्वमस्याः ॥५६७॥
तन्मान सत्वनियतन्न परोक्षवृत्ति किं वास्तवतो भवति लाघवमत्र पक्षे || सामान्यतो भवति मानसबोधमात्रे बाह्याक्षवोभजनकं प्रतिबन्धकं यत् ||५६८ ॥ तस्मिन् परोक्षमतियोगिनि कल्पिते तु
किं गौरवन्न प्रतिबन्धकतान्यतातः ॥ प्रत्यक्षता निखिलविज्ञजनप्रसिद्धा
हेया न तर्क रसिकैरनुमात्मबोधे ॥ ५६९ ॥ साङ्कदोषघटना तु कुतार्किकाणां जातित्वबाधकतयाऽभिमता न विज्ञैः ॥ आत्मत्वजातिरपि येन न भूतसङ्के देहात्मके गुरुमतेन भवेत्प्रसिद्धा ||५७० || संयोग इन्द्रियभवे न पृथक्प्रकल्प्यो व्यापार आत्मविषये मनसोऽपि बोधे ॥