________________
( १०४ )
न्यायसिन्धौ.
व्याप्तिग्रहो निखिलसाधनसाध्यधर्मिग्राही कथं भवतु तेन न लिङ्गजोऽपि ॥ ५६० ॥ नैवागृहीतनियमो ऽनुमितौ समर्थो हेतुस्ततो नियमबुद्धिरिहापि लिङ्गात् ॥ तत्रापि तद्ग्रहणमन्यत एव लिङ्गादेषाऽपरा नियमबुद्धिकृताऽनवस्था ॥५६१ ॥ गौणं प्रमाणमिह नैव मतं बुधानां प्रत्यक्षमात्रमत एव भवेत्प्रमाणम् ॥ गौणात् त्वयाऽनुमितिकारणवृत्तिरुक्ता, गौणत्वतो न तव मानमतोऽनुमानम् ॥ ५६२ ॥ पक्षो यतो भवति साध्यविशिष्टधम्मी
व्याप्तिग्रहे स तव साध्यपरो मतोऽथ ॥ व्याप्यस्य पक्षघटनाग्रहणे स धर्मी
गौणाद्विना कथय काऽत्र तवास्ति नीतिः ॥ ५६३ ॥
सामान्यमत्र यदि साध्यतया मतन्ते
तत्साधनं भवति तर्हि वृथैव सिद्धेः ॥ किञ्च प्रवृत्तिरपि नैव फलार्थिनां स्थाज्ज्ञानं विनाऽन्यदिह तस्य यतो न कार्यम् ५६४
व्याप्यग्रहाद् भवति नैव विशेषरूपrarisraeादिघटना न विशेषतो यत् ॥
प्रत्येक पक्षपरिदर्शित दोषतस्तु,
नैवोभयं भवति साध्यतयाप्यदुष्टम् ॥५६५ ॥