SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ॥ चावकमतप्रदर्शनम् शृङ्गं शशीयमपि किन्न मतन्त्वयाऽङ्ग नो दृश्यते क्वचिदपीति न तन्मतं चेत् ॥ आत्मोपलब्ध इह किं भवता कदाचि - नेत्रादिना ननु यतो न भवेत् स मिथ्या ५५५ नाहं प्रतीतिविषयो भवतामिहात्मा गौरोऽहमित्यनुभवो हि शरीरधम्मैः ॥ एकत्र धर्मिणि सहावगतौ प्रवीणोऽहन्त्वस्य सुख्यहमिति प्रथनन्तु मिथ्या ॥ ५५६॥ लिङ्गं न चात्र निरुपद्रवमीक्ष्यते यत् तेनानुमानमपि तस्य भवेन्न सिद्धौ ॥ नो व्याप्तिबुद्धिमनपेक्ष्य तवानुमायाः faralaistभमतो बुध लिङ्गजायाः ॥ ५५७ ॥ व्याप्तिग्रहो भवति न व्यभिचारशङ्काभङ्गानुकूलमनपेक्ष्य च तत्र तर्कम् ॥ व्याप्तिग्रहञ्च विरहय्य न तर्कजन्म तत्रापि किं भवति न व्यभिचारशङ्का ||५५८|| तस्याः क्षयोऽपि यदि तर्कसमाश्रयेण (०३) स्याच्चक्रको भ्रमणतोऽभ्रमणेऽनवस्था ॥ व्याप्तिग्रहोऽक्षजनितः किमु लिङजो वा तत्राक्षजो यदि मतो न च युज्यते सः ॥ ५५९॥ यस्मात् पुरःस्थितपदार्थमतौ प्रवीणन्नैत्रादिक व्यवहितार्थमतावलन्नो ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy