________________
(१०२)
न्यायसिन्धौ.
स्वाभाविकोर्ध्वगतिमानपि यस्य योगादात्मा भवे भ्रमति मत्त इवेह मद्यात् ॥ ५४९॥
नन्वत्र गौतमसुतानुमतो न मातो ज्ञानन्नवा न च तयोस्समवायबन्धः || इत्थं त्वयैव विनिभालितमेतयैव
नीत्या न किं गुरुमतं मतमद्वितीयम् ॥५५०॥ न स्वर्गलोकमनुगच्छति कोऽपि जीवो देहाभिन्न इह सोऽपि न मानसिद्धः ॥ पूर्वः परो न च भवो नरकादिकन्नो प्रत्यक्षभिन्नमथ मानममानमेव ॥ ५५९ ॥ किं
पूजया किमु तथेन्द्रियनिग्रहेण दारादिभोगविमुखैश्च मुधा तपोभिः || कश्चागतोऽत्र परलोकत इत्यविज्ञा धूर्तप्रलापवचनैः किमु वञ्चिता नो ॥ ५५२ ॥
चत्वारि सर्वजनताऽक्षजगोचराणि
भूतानि सन्ति नहि तद्व्यतिरिक्तमस्ति ॥ तान्येव देहपरिणामविशेषलाभे
किञ्चेतनानि न भवन्ति यतोऽन्य आत्मा५५३
दृष्ट हविर्गुडकणिकसमष्टिरूपे किं मोदके न हि विचित्ररसप्रकर्षः || किं वा तथा न मदशक्तिरनन्यरूपे संयोगतस्समुदयात्मनि दृष्टपूर्वा ॥ ५५४॥