________________
॥ न्यायमतखण्डनेईश्वरविचारः॥
(१०१)
पक्षाप्रसिद्धिरिह दोषतया न चेष्टो
जैनैर्यतो भवतु तस्य शरीरिताये ॥ साध्येऽप्रसिद्धिघटना खलु धर्म्यसिद्धया
वैकल्पिकी त्वभिमता बुध धम्मिसिद्धिः ॥५४४ किश्च स्वतन्त्रगमके खलु धर्म्यसिद्धि
दोषो भवेन्न च प्रसङ्गतयाऽप्यभीष्टे ॥ एवं स्थिते भवतु किन्न च कर्ततादे
रीशे शरीरघटनादिप्रसञ्जनन्नः ॥ ५४५॥ ईशोऽथवा किमु न जैनमते मतोऽस्ति धर्म्यप्रसिद्धिवचनं वचनीयमेव ॥ कर्ता परन्न च भवेत्तत एव तस्य
कर्तत्वखण्डनपरं शिवखण्डनन्नः ॥५४६॥ तीर्थप्रवर्तनपटुर्भवतां मतेऽपि
कस्माद् भवेत्स इति नैव परेण चोयम् ॥ कामादिदोषरहितोऽपि हि तीर्थकृत्त्वस्वाभाव्यतो भवति तीर्थकरो जिनेन्द्रः॥५४७॥ यत्तेन तीर्थकरनाम शुभैरनेकैः
कार्जितन्तदुदयाद्भविकोपकृत्यै ॥ तीर्थ प्रवर्तयति कर्मवशेन सिद्धो निःशेषकर्मवियुतोऽतनुराहतानाम ॥ ५४८ ॥ नैतद्गुणात्मकमिहाभिमतं जिनानां ज्ञानादिवद् भवति पौगलिकं परन्तु ॥