________________
(१००)
न्यायसिन्धौ.
दण्ड्यापकारविषये च न कर्तताऽस्य
शम्भुस्तवाभिलषितस्तु ततो विरुद्धः ॥५३८॥ राजा स्वतन्त्र इह नैव तथा क्रियायां मन्ध्यायनेककरणोपकृतः प्रभुस्सः ॥ राज्यक्षयादिभयतो नयमार्गगामी
नैवं शिवस्तव मतोऽखिलकार्यकर्त्ता ॥५३९।। राजा प्रसन्नहृदयो द्रविणं ददाति क्रुद्धो हरत्यखिलमेव धनञ्च किं वा ॥ कोपप्रसादविगतो भवतां महेशः
कस्येष्टकृद् भवतु कस्य च दुःखकारी ॥ ५४०॥ धर्मादयो नियमिता नियमेन कार्य
कुर्वन्ति नोऽनियमिता इति शम्भुसिद्धिः ॥ शम्भुस्स्वयं यदि न कार्यजनौ प्रभुस्स्यात् सिद्धिस्तदो भवतु तस्य कथं पटिष्ठा ॥५४१॥ नेत्रादिकं नियतगोचरमत्र दृष्टं
क्षेत्रज्ञतोऽनियतगोचरतस्स्वकीये ॥ ग्राह्ये प्रवृत्तिमदधिष्ठितमेव तहत्
क्षेत्रज्ञराशिरपि किन्न ततो महेशः ॥ ५४२।। एतन्न युक्तमनवस्थितिदोषतस्तेऽ
धिष्ठायकानुशरणस्य यतो न काष्ठा ॥ विश्रान्तिरस्ति यदि तहि न शम्भुसिद्धिव्याप्तेर्लयाद् भवितुमर्हति गौतमानाम् ॥५४३॥