SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ || न्यायमनखण्डन ईश्वरविचार: दुःखापनोदनकृते च भवेद्विलासः किं वा सुखाय तदुभावपि नो महेशे ॥ स्वातन्त्र्यमात्मनियतं सकलेषु पश्यन् दुःखान्वयं जगदिदं प्रकरोतु कस्मात् ॥ ९३३॥ धर्माद्यपूर्व सहकारिवशान्महेशो वैचित्र्यशालि जगदेव करोति नान्यत् ॥ एवं मतं यदि तदा परतन्त्रतैव (९९) स्वातन्त्र्यमस्य नहि तेऽभिमतन्तु युक्तम् ५३४ धर्मं विलोक्य ननु तेन सुखं करोतु पापं विलोक्य विरतोsस्तु च दुःखस्सृष्टेः ॥ एवं कृते भवति नो परतन्त्रताऽनु कम्पापि सर्वजनिमत्सु प्रकाशिता स्यात् ॥ ५३५ पापं विधाय पुनरस्य विनाशकर्त्तु भगेन मूढजनतोऽप्यपकृष्टताऽस्य ॥ नूनं भवेन्न नियमोऽस्ति तथा विनाशो भागेन कर्मपटलस्य न चान्यथेति || ५३६ ॥ ज्ञानाग्निनाऽप्यशुभकर्म्मततेर्विनाशः शास्त्रे तवापि ननु सम्प्रतिपन्न एव ॥ ज्ञानं स्वसन्ततिगतन्न कथं विधाय सर्वोपकारनिपुणोऽप्यभवन्महेशः ||५३७॥ दण्ड्याय दण्डमिह यन्नृपतिर्ददाति रागादिदोषकलितो व्यपदिश्यते तत् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy