SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ (९८) . न्यायसिन्धी इत्यादितार्किकवचो न विचाररम्यं भावावबोधविरहेण प्रवर्तमानम् ॥५२७॥ अन्यानि यानि जनकानि त्वयोदितानि, वस्तूनि तान्यपि महेशकृतानि चेत्स्युः ॥ सर्वाणि तानि न भवन्ति सदैव कस्मा देवं स्थितौ च जनकानि कुतः क्रमेण ॥५२८॥ तत्रानवस्थितिलता न हृदि स्थिता ते जैनैरपीह ननु सोपगतैव यस्मात् ॥ किन्वीडशापेक्षण ईश्वरस्यापेक्षानवस्थितिघटा त्वपरैव काचित् ।। ५२९ ।। तत्कारणानि यदि नेश्वरसम्भवानि तैरेव किं भवति नो व्यभिचारि लिङ्गम् ॥ प्रेक्षावतां भवति किञ्च प्रयोजनेन व्याप्ता प्रवृत्तिरिह नेतरथा क्रियायाम ॥५३०॥ सम्प्राप्तकामनिकरस्य महेश्वरस्य नो ते प्रपञ्चकरणाकिमपीष्टमिष्टम् ॥ क्षित्यङ्कुरादिकमयं विदधातु कस्मास्प्रेक्षाऽथवा किमु भवेन्न त्वयाऽस्य लुप्ता ॥५३१ कारुण्यतो भगवतो यदि ते प्रवृत्तिः सृष्टिभवेच्छभमयी न च तद्विरुद्धा ॥ क्रीडा तु रागनियता न भवेन्महेशे न क्रीडयाऽपि तत एव जगत्प्रवृत्तिः ॥५३२।।
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy