________________
॥ न्यायमतखण्डन ईश्वरविचारः
(९७)
न प्रक्रियानुसरणेन भवेद् व्यवस्था
कर्ता प्रसिद्ध्यतु यतो निखिलेऽपि कार्ये ॥ किञ्चान्वयो न नियतो व्यतिरेक एव । किन्त्वत्र कारणतयाऽभ्युपगम्यमाने ॥५२२॥ ईशस्त्वया सकलकालगतो मतोऽस्ति ।
काले ततो न विरहोऽस्य तथा न देशे ॥ व्याप्त्यान्वयादिति कथं व्यतिरेकशून्ये
हेतुत्वमप्युपगतन्तव सिद्धिमेतु ॥५२३॥ ज्ञानादयो निखिलकार्यजनौ समर्था व्यापारतामनुभवन्ति सदैव तस्य ॥ कार्यन्ततो निखिलमेव सदैव किन्न
सामध्यभाजि जनके न जनेविलम्बः॥५२४॥ सोऽपेक्षते यदि परं सहकारिणं त. न्नित्यं भवेदुत ततो व्यतिरिक्तमेव ॥ आये भवेजनिमतान्न जनेर्विलम्बः कर्ता सदाऽस्ति सहकारिकरम्बितो यत्।।५२५॥ अन्त्ये स ईश्वरकृतोऽभ्युपगम्यते चेत्
तस्यापि किन्नहि भवेच्च सदेव जन्म ॥ तत्राऽपि सोऽन्यसहकारिसमाश्रयेण हेतुर्भवेद्यदि तदा सुदृढाऽनवस्था ॥५२६॥ इष्टानवस्थितिरियं हि प्रमाणमुला विश्वव्यवस्थितिरियं न यतोऽन्तरा ताम