________________
(९६)
न्यायसिन्धौ.
एकत्र तदिनिगमो न परत्र चेत्तत्
तुल्यं निभोलय मृदादिषु कार्यतायाम् ॥५१६।। कर्तत्वमस्य यदि वोधप्रयत्नकाम
संसर्ग एव ननु तर्हि समस्तभावे ॥ कर्तत्वमापतितमस्य ततो न नित्यं
किश्चित्तवाप्यभिमतं स्थिरतामुपैतु ॥५१७॥ यद्धेतुगोचरमतिन्ननु तस्य कर्त्ता
नान्यस्य तहिगमतो यदि सम्मतस्ते ॥ ज्ञानादि तर्हि नहि केवलमर्थकारि
कार्यव्यवस्थितिरिहान्यबलाद्यतोऽभूत् ॥५१८|| कर्ता न सर्वजनकावगतौ समर्थः
कुम्भादिकार्यजननेऽप्यवलोकितोऽस्ति ॥ यस्माददृष्टमपि कारणमस्त्यदृष्टकालादिकं घटपटादिविधानदः ॥५१९॥ एवं समस्तजनकावगतेरभावे
ऽपोशोऽकुरादिविदधातु ततो न तस्य ॥ स्यात्कल्पनं सकलकारणप्रेरकत्वा
दज्ञातहेतुरपि किन्न करोतु कार्यम् ॥५२०॥ सामान्यतो न वपुषाऽनुविधातनस्ति कार्यस्य तेन नहि कारणमिष्यते तत् ॥ कापि नैव सममस्ति विलोक्यमानं प्रेक्षवता तदिति सोऽपि न कारणन्ते ॥५२१॥