________________
॥ न्यायमतखण्डनेईश्वरविचारः ॥
(९५ )
ज्ञानत्वतो निखिलमेव भवेच्च जन्यं
ज्ञानं तदन्यदपि तेऽनुमतं कथं स्यात् ।। किं वा तथैव न घटादिविलक्षणं सत् कार्य मृदाद्यपि मतन्तव कत्रजन्यम् ॥५११॥ संवेदनं स्वत इहोपगतं त्वया नो
जीवात्मबोधगतमीश्वरबोधगन्तत् ॥ ज्ञानत्वतो भवितुमर्हति नैव तहत्
सर्वज्ञता वद तदाऽस्य कथन्नु युक्ता ॥५१२॥ जात्या समानमपि तन्निखिलावगाहि
स्वात्मावभासि च विलक्षणमिष्टमस्य ॥ कार्यत्वतस्तदिव तुल्यमकतकञ्च
कुम्भादिनाऽङ्कुरमृदादि विलक्षण सत् ॥५१३॥ जन्यस्य वृत्तिनियमो ननु कायभावा
यद्येन जन्यमिह तन्नियतं तदस्तु ॥ ज्ञानन्तु तत्तव मते नहि जन्यमिष्टं
कस्मात् ततो न सकलात्मगतं भवेत्तत् ॥५१४॥ एतेन सर्वविषयत्वप्रसाधिका ते
युक्तिभवेत्सकलयत्तिप्रसाधिकाऽपि ॥ अत्र स्वभाव उररीक्रियतेऽथ तर्हि
कर्तुर्विनाऽपि तत एव न किं मृदादि ॥५१५॥ स्याल्लाघवाद्यदि न सर्वगतस्स बोधस्तेनैव सर्वविषयोऽपि न युज्यतेऽथ ॥