________________
(९४)
न्यायसिन्धों
क्षित्यङ्कुरायनुभवेऽपि न जायते यत्
कर्तुः स्मृतिन च सकर्तृकमिष्यते तत् ॥५०५॥ एकत्र दर्शनबलाद्यदि कार्यमात्रे
का मतो जनक ईश इहेन्द्रमूनः ।। किं कारणन्नहि नरो भवतां मते स्यात्
कुम्भादिवद् भवति सोऽपि मृदो विकारः॥५०६। कर्ता शरीररहितो न च संप्रसिद्धो
ऽदृष्टोऽपिचेत्तव मतो नियमानुरोधात् ॥ क्षित्यङ्कुरायपि घटादिविलक्षणन्न
कार्यन्तदा किमिह दृष्टमकर्तृकं स्यात् ॥५०७॥ कार्यत्वतो भवतु कारणजन्यताऽस्य
तत्रापि लाघवबलादणुजन्यतैव ॥ भासेत लैङ्गिकमतो भवजन्यता तु
नो गौरवप्रतिहता तव नीतिरीतेः ॥५०८॥ एकान्ततस्तव मता न च कार्यताऽत्र पक्षेऽस्त्यतो भवति नो किमु हेत्वसिद्धिः ॥ सामान्यतो भवति साऽव्यभिचारिणी नो
आत्माद्यपक्षगमनादिति चिन्तनीयम् ॥५०९॥ एतेन नावयविताऽपि मता तव स्यात्
कार्यत्वसिद्धयनुगुणा शशशृङ्गकल्पा ॥ सामान्यतो भवतु सा न तयार्थसिद्धिः काचित्तवाभिलषितेति विचारयान्तः ॥५१०॥