________________
(९२)
न्यायसिन्धौ.
यस्माद् घटात्मनि मतेविरहेऽपि देहा
स्मन्यस्ति बुद्धिघटनैकविभुस्वरूपे ॥४९४॥ ज्ञानादिकं प्रति तनोजनकत्वमेवं स्यात्कल्पनीयमिति गौरवमत्र किन्न । थापादकापगमतोऽविभुतामते नो
नापत्तिरस्ति तत एव न गौरवं स्यात् ॥४९५॥ ज्ञानादिकञ्च नहि तत्र परप्रकाशे सिद्धयेत् कुतोऽस्य ननु साश्रयता गुणत्वात् ॥ तत्तच्छरीरनियमोऽपि विभोन युक्तो ज्ञानादि तन्नियमितं सुतरान्न च स्यात् ॥४९६॥ नादृष्टतोऽपि नियमस्तव युज्यतेऽत्र
तस्यैव यन्न च नियामकमस्ति किञ्चित् ॥ स्वस्वामिभावनियमोऽपि कथन्तथैवाऽ
दृष्टोत्मनोनियतयोरुपपद्यते ते ॥४९७॥ नन्वेतदर्थमिह सर्वपदार्थविज्ञोऽधिष्ठायकोऽक्षिचरणानुमतो महेशः ॥ पश्यन् स एव नियतात्मगतन्त्वदृष्टं
स्वस्वामिभावनियमेन करोतु किन्नो ॥४९८॥ कार्य सकतकमिति स्वत एव लोकैः, सामान्यतोऽत्र नियमोऽवगतो घटादौ ॥ भूम्यङ्कुराद्यवयवित्ववशात् प्रसिद्धं कार्य स्वकर्तृशिवसाधनतत्परन्नः ॥४९९।।