________________
॥ न्यायमतखण्डनम् ।।
किञ्चास्त्वदृष्टमिह कारणमर्थराशौ
नैयायिकस्य न ततोऽपि विभुत्वसिद्धिः ॥ स्वाधारयोगपरिकल्पनमन्तराऽपि
शक्त्यैव यद्भवितुमर्हति हेतुताऽस्य ॥४८९॥ वैचित्र्यमेव शरणं विभुवादिनोऽपि यत्नो यतो नहि ततोर्थभवे समर्थः॥ यत्ने कृतेऽपि बहुशो न मुख प्रयाति ग्रासो विनैव च करग्रहणं जनानाम् ॥ ४९० ॥ आकर्षणं भवति तञ्च विनापि मान्यं स्पर्शादयोमणिगुणादयसस्तवापि ॥ सान्निध्यतो न च परोऽस्ति तयोस्तु प्राप्ति
न्र्नोऽदृष्टकल्पनमिहापि तव प्रशस्तम् ॥४९१॥ शत्रोर्यथा मरणहेतुरयं तथैव श्येनादियागजनितः सुहृदो न किं स्यात् ॥ उद्देश्यताद्यपरबन्धमुरीकरोषि
चेत्तह्यलं विभुतयाऽऽत्मप्रकल्पनेन ॥ ४९२ ॥ संसर्गसंघटितमेव न कारणत्वं
शक्त्यात्मकं भवति किन्तु जिनागमे तत् ॥ शक्तिः स्वकायनियता नियतात्मभावस्थित्या भवेन्नियतकारणगैव किञ्च ॥४९३॥ स्याद् गौरवन्तव विरोध्यविरोधकत्वेऽवच्छेदकस्य नियतस्य प्रवेशनेन ॥