________________
(९०)
न्यायसिन्धौ.
तन्नाशतो ननु परेण प्रदर्शिता या
सेष्टप्रसञ्जनतया क्षतिकारिणी नो ॥ ४८३ ॥ नो प्रक्रियाऽपि परमार्थत इष्यते सा
नैयायिकोपरचिता परमार्हतैस्तु ।। संयोगनाशमनपेक्ष्य यतो विनाशः
केयूरभावपरिणामककुण्डलस्य ॥४८४॥ किश्चानुमानमपि देहसमानमान
आत्मन्यबाधिततयाऽत्र प्रवर्तते नः ॥ यत्रैव यो भवति दृष्टगुणस्स तत्र
कुम्भादिवद् भवति चात्र न दोषलेशः ॥४८५॥ नित्ये विभौ च नहि कर्मकलापबन्धो
ऽभावे च तस्य सुतरान्नहि मुक्तियोगः ॥ नो जन्म मृत्युरपि नैव न कर्तृभोक्तृ
भावो तथाऽविचलितात्मनि तार्किकाणाम ४८६ नोऽदृष्टमिष्टमखिलेऽपि च जन्यभावे
हेतुर्बुधाग्य ननु येन विभुस्तवासौ ॥ सिद्धयेत्समस्तजनिमत्सु च तस्य योग
सम्पादनार्थमिति भावय तार्किक त्वम् ॥१८७|| वायोगतिर्हतभुजो ज्वलनं स्वभावात्
स्वस्वस्वभावनियता हि समस्तभावाः ॥ किञ्चोपराद्धमणुभिस्तव येन तेषु नानन्तशक्तिमवलोकयसे स्फुटाभाम् ॥ ४८८ ॥