________________
॥ न्यायमतखण्डनम् ॥
प्रत्यक्षतस्सकलदेहभृतां स्वदेह
तुल्यात्ममानविषयेव मतिः प्रसिद्धा ॥ प्रत्यक्षबाधिततयाऽनुमितिन्न चात्रात्यन्तप्रकृष्टपरिमाणप्रसाधिका स्यात् ॥४७८॥ नैवापकृष्टपरिमाणतया महत्त्वे कार्यत्वतो भवति नाशप्रसञ्जनश्च ॥ व्याप्तिस्तयोन्नहि प्रयोजकमन्तरेण
येनात्मनोऽपि विलयोऽथत आगतः स्यात्॥४७९ किञ्चास्य मानमपि नस्तनुनामकम्र्मो
द्भुतं मतम्भवति तन्न च नित्यमेव ॥ नाशेऽथ तस्य च भवेदनुगामिनोऽपि
जीवस्य तत्परिणतस्य लयः कथञ्चित् ॥४८०॥ नो सर्वथा जिनमते विलयोऽस्ति कस्याप्येवं स्थिते न परदर्शितदोषपोषः ।। यत्खण्डनेऽप्यवयवस्य तनोः करादेस्तद्देशखण्डनमिह प्रवदन्ति वृद्धाः ॥४८१॥ कम्पोपलब्धिरत एव च खण्डितेश
आत्मप्रदेशगमनादुपपद्यते नः॥ नो नो मनोऽन्तरप्रवेशविकल्पनेन
कम्पोपपादनपरिश्रमदुःखलेशः ॥४८२॥ एतेन सावयवताऽल्पमहत्त्वयोगात् संयोगजत्वमुपगम्य विनाशिताऽस्य ॥