________________
न्यायसिन्धौ.
विज्ञानवादपरिमर्द्दनयुक्ति जालोऽप्यस्त्येव किञ्च तदुपज्ञप्रकारमार्गे ॥ ४६१ ॥
( ८६ )
सर्व सदेव नहि विश्वमसत्तथा नो आविद्यकं भवति किन्त्वह दृश्यवस्तु ॥ एतच्च तैरुपगतं परमत्र तत्त्वं ज्ञात्वापि नो विशदयन्ति तदेव चित्रम् ॥ ४६२ जात्यन्तरे भवति वस्तुनि नैव दोषः
प्रत्येक पक्षमवलम्ब्य यतोऽस्य वृत्तिः ॥ यद्व्यावहारिकमिदन्तव सस्वमिष्ट
न्तत्पारमार्थिकतयैव विचारयान्तः ॥ ४६३ ॥
शून्यत्वमस्य जगतो न विना प्रमाणं
प्रामाणिकस्य निकटे तव सिद्धिमेति ॥
प्रत्यक्षमानमिह सस्वप्रसाधकन्न मिथ्यात्वसाधकतयाऽभ्युपगन्तुमर्हम् ॥ ४६४ ॥
मानान्तरं भवति किन्तु ततोऽपि नैव प्रत्यक्षवाधिततया तदुपैति सिद्धिम् ॥
स्याद्वादतस्सकल एव तथा च हेतुर्जात्यन्तरस्य गमको न तु शून्यतायाः ॥ ४६५॥ दृश्यत्वतो जगति तेऽभिमतन्न सिद्धिं
मिथ्यात्वमेति बुध दोषततेविलासात् ॥ लिङ्गविदं यदि न दृश्यमतो न सिद्धिज्ञतं यतो भवति लिङ्गमिह प्रमाणम् ॥४६६ ॥