SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ || देदान्तमतखण्डनम् ॥ (८५) प्राभाकरोत्र विषये न कथाधिकारी संवेदनं भवतु येन तदुक्तमिष्टम् ॥ ज्ञानत्वमेव प्रमितित्वमनेन बोधे प्रोक्तं भ्रमथमपरन्न च तस्य किञ्चित् ॥ ४५६ ॥ भेदाग्रहः खलु प्रवर्तक इष्यते तैभ्रन्तिस्थले परमसौ न विचारमार्गे ॥ सुप्तस्य तेन नहि जायत एव यत्नस्तुच्छस्ततो नहि स तेऽपि मते भवेच्च ॥ ४५७ दाहो भवति ते ननु पर्युदासवृत्त्या त्वभेदमतिरेव तथा च सिद्धा ॥ भ्रान्त्यात्मिका मतिरिति स्वत एव नैव बोधतो भवति मात्वमतेः प्रसिद्धिः ॥ ४५८॥ ज्ञप्तौ यथैव परतश्च भवेत् प्रमाणं कार्ये तथैव परतो विनिभालनीयम् ॥ हेतुप्रमात्वधिकृता प्रकृते ततो न स्याद्वादपक्षविमुखः परतोऽपि पक्षः ॥ ४५९ ॥ मीमांसके प्रतिहते न च सर्ववस्त्वद्वैतप्रवादिमतमप्यनुमोदनीयम् ॥ युक्तिस्समा तदुभयोर्हि निराक्रियायां पूर्वप्रदर्शितदिशा त्ववधारणीया ॥ ४६० ॥ शून्यत्ववादिमतखण्डनदर्शितोक्त नीतिस्तथा भवति तस्य निराक्रियायाम् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy