________________
(८४)
न्यायसिन्धौ.
सम्बन्ध इष्ट इह चेत्तव कोऽपि तर्हि किं ज्ञातताभ्युपगमेन निरर्थकेन ।।४५०॥ ज्ञानश्च सर्वमिह साम्प्रतगोचरन्न
भूतं भविष्यदपि यद्विषयीकरोति ।। नो ज्ञातता भवितुमर्हति तत्र तस्माज
ज्ञानं प्रसिद्धयतु तयाऽनुमितेः कथन्ते ।।४५१॥ किञ्चेष्टतादिकमपि प्रथितन्न कस्मा
दिच्छादयोऽप्यनुमितेविषयास्ततस्स्युः ॥ ज्ञाता तथा भवति साऽनुमितौ समर्था
तत्रानवस्थितिरपर्यवसानतः स्यात् ।।४५२॥ व्याप्तिग्रहोऽपि च तया सह तस्य वाच्यः
सोऽपि प्रसिद्धयति न तामपरां विहाय ।। एषानवस्थितिलता त्वपरोदिता स्यात
तस्मात् कथं कथय तस्य तयाऽनुमास्तु॥१५३॥ ज्ञप्तिः फलं यदि भवेदनुमापके सा
स्वेनैव सिद्धयति तदोस विभिन्नबोधात् ।। आये तयैव निखिलो व्यवहार इष्टः स्यात्तेऽन्यबोधपरिकल्पनमर्थवन्नो ॥ ४५४॥ अन्त्येऽनवस्थितिनिपातभयान्न मुक्ति
आता यतो भवति सानुमितौ तु हेतुः ॥ व्यापारतोऽस्ति नहि कोऽपि विशेषलेशस्तस्याः किमर्थमिह कल्पनमादृतं स्यात्॥४५५॥