________________
(८२)
न्यायसिन्धौ.
सामान्यतोऽथ नियमो वचनस्य चास्ति
बुद्धथैव नाऽल्पविषयावगमेन विद्वन् ॥४३९॥ स्वात्मस्थितं ह्यनुभवन्ननु दुःखराशिं
स्वाभेदतो भवति कर्मठ दुःखभोगी ॥ अन्यात्मनिष्ठमवयन्नपि च प्रमाता दुःखं कथं भवतु सर्वविदस्य भोक्ता ॥४४०॥ आप्तोक्ततागुणबलाहचनं प्रमाणं
प्रामाण्यसिद्धिरपि तत्र ततस्ततोऽस्तु ॥ किञ्च प्रमाणमपि जैमिनितन्त्रसिद्धं
नास्ति स्वतो भवतु कस्य प्रमात्वमिष्टम॥४४१॥ व्यापार एष कथितो ननु तैः प्रमातु
ाथार्थ्यमर्थनियतं प्रथते हि तस्मात् ॥ व्यापारयुक्त इह कार्यभबे समर्थो
हेतुर्न तन्तु विरहय्य पटुः क्रियायाम् ॥ ४४२॥ नन्वीहशो नियम आद्रियते भवद्भिठापार इष्ट इह हेतुरथाप्यहेतुः ।। यायेऽनवस्थितिरथानियमप्रसङ्गो व्यापारतविरहकल्पनया भवेत्ते ॥ ४४३ ॥ अन्त्ये स्वभावविलयोऽजनको यतो न व्यापारतापरिगतो विबुधप्रसिद्धः ॥ व्यापारभिन्नजनकस्य च सह्यपेक्षा नो तस्य सेति यदि कोऽत्र विशेष इष्टः ॥४४४॥