________________
॥ सर्वज्ञविचार ॥
(८१)
अध्यक्षबाध इह योग्यतया प्रसिद्धं ग्रा भवेन्नहि परस्तु परस्य योग्यः ॥ त्वद्दर्शितानुमितितो न भवेच्च बाधा नैकत्र दर्शनबलान्नियमा हि युक्तः ॥ ४३४ ॥ मीमांसकत्वमपि जैमिनितोऽन्यथा स्यात् पुंस्त्वादितोऽपहृतसत्त्वमदर्शनं किम् ॥ रथ्यानरे भवतु नो नियमोऽत्र येन कश्चिद्विशेष इह नैव निभालितोऽस्ति ॥ ४३५॥ प्राभाकरोऽपि पुरुषत्वसमन्वयेन मीमांसको नहि भवेत्स इवाल्पबुद्धिः ॥ एतादृशानुमितयस्स्ववधाय कृत्यो- त्थानं भवेयुरिति तद्धृदये कुरुष्वं ॥ ४३६ ॥ तात्कालिकैरविदिताखिलवेदतत्त्व
ज्ञतो बभूव तत्र जैमिनिरत्र यद्वत् ॥ तद्वज्जनोऽपि विदिताखिलवस्तुतत्त्वो ज्ञातो विनेयभविकैरिह किन्न मान्यः ॥ ४३७ ॥ व्याख्यातृतागुणबलेन यथा त्रिवेदी वेदैकभागविदुषामपि जैमिनिर्वः ॥ ज्ञातो बभूव किमु नोऽपि तथैव नोऽर्हन् सिद्धान्तदेशविदुषां विदितोऽखिलज्ञः ॥४३८॥
साधर्म्यतो यदि भवेन्नहि सर्ववित्स
मीमांसकोऽपि तव जैमिनिरत्र न स्यात् ॥