SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ (८०) न्यायसिन्धी NAAM www तत्त्वे च तस्य भवदागमतोऽपि सिद्धिहस्तस्थरत्नमतिवत्किमु नास्ति घिद्वन् ॥४२८॥ प्रत्यक्ष एव स च केवलबोध इष्टो जैनैस्तदावरणकर्मलयोऽस्य हेतुः॥ नाक्षोद्भवत्वमिह लक्षणमस्य किन्तु स्पष्टत्वमेव विशदीकृतमाहतैर्यत् ।। ४२९ ॥ तस्माद्विकल्पनिकरो भवतोऽर्थवान्नो हेतद्भवत्वविषये जिनतन्त्रसिद्धः ।। स्वाभाविको हि गुण आत्मनि बोधरूपो निश्शेषकर्मविलये प्रथते विशुद्धः ॥ ४३०॥ अभ्यासतो भवति नैव प्रकर्षनिष्ठाऽन्यौपाधिकस्य प्रकृते तु कथं न सा स्यात् ॥ नैर्मल्यमम्भसि न किं कतकप्रयोगेऽत्यन्तप्रकर्षपरिणामि जनेन दृष्टम् ॥ ४३१ ॥ भ्रान्ति तु यद्यपि परस्य स वेत्ति तेन भ्रान्तत्वमस्य च तथापि न युज्यते यत् ॥ भ्रान्तेः प्रमाणविधयाऽवगतौ भवेत्तत् भ्रान्तित्वतोऽवगमने तु प्रमातृतैव ॥४३२॥ ग्राह्यांशतोऽपि प्रकृतेऽस्ति न तस्य भावो भ्रान्तौ तु तद्विषयतायवगाहनेऽपि ॥ यन्नास्ति यत्र ननु तस्य मतो तु तत्र तत्किं न तहिषयतास्ति तदप्रमायाम् ॥४३३॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy