________________
॥ सर्वज्ञविचारः ॥
( ७९ )
प्रत्यक्षबुद्धिरिह नैव ममापि मान्या तत्खण्डनं क्षतिकरन्न च सर्ववित्वे ॥ नैवाऽनुमा तदुदयाऽपि च तत्र मानं केनोपमानमिह मानतया प्रयुक्तम् ||४२३॥
सामान्यतो भवति दृष्टमिहानुमानन्तत्साधनाय निरुपद्रवयुक्तिसिद्धम् ॥ ज्ञानप्रकर्षजनितो वचनप्रकर्षः
किन्नास्मदादिनियतो नियमो न येन ॥ ४२४॥
स्पष्टेकबोधविषया ननु सर्वभावाः कस्यापि सातिशयबोधवतोऽत्र पुंसः ॥
पञ्चाङ्गुलीवदभिधेयप्रमेयतादे
व्यप्तर्न चात्र विरहो न च दोषलेशः ॥ ४२५॥ सामान्यतो भवति यो मतिगोचरस्सोSसाधारणेन मतिगोचर इत्यतोऽपि ॥ सत्त्वादिना मतिगता ननु सर्वभावाः कस्यापि बोधविषया नियतस्वरूपैः ॥४२६॥ व्याप्तिग्रहोऽपि सुलभो मनसोहतो वा किं वान्यतोऽस्तु भवतामपि मान्य एषः ॥ धूमानुमानमपि तेन विना कथं स्याद् यत्रोभयोरिति गतिर्भवतैव दत्ता ॥ ४२७ ॥ सिद्धार्थकस्य वचनस्य च पूर्वनीत्या ।
प्रामाण्यमत्र भवतामपि सम्प्रसिद्धम् ॥