________________
(७८)
न्यायसिन्धौ.
अस्मादृशैश्च सदृशोऽल्पपदार्थवित्त्वात् तस्मात् कथं भवति नोपमितेस्तु बाधा।।४१७॥
शब्दस्स्वलौकिक इहास्ति विधिप्रधानो नो सिद्धिगोचरचरो न ततोऽस्य बाधः॥ किन्त्वस्मदादिरचिता बहवः प्रतीतास्तद्बाधका न भवतां श्रुतिगाचराः किम॥११८॥ स्यास्सर्वविद्यदि तदा तव सम्मतोऽत्र पञ्चप्रमाणविषयोऽपि भवेन्न चैवम् ॥
तस्मान्न चास्ति स इदं किमु बाधकन्नो भावप्रमाणमपि तविषयानुमायाः ॥४१९॥ किश्चास्य कीटमशकादिमतिः किमर्था प्रेक्षावताऽपि भवताऽभिमताऽत्र पुंसः॥
सौख्यास्पदाभिमतसर्वमति प्रकल्प्य नानुग्रहः किमु कृतोऽस्य निजोपदेष्टुः ॥४२०॥ दुःखानुभूतिवशतः खलु दुःखभोगी दुःखीति लोकसरणौ जनताप्रसिद्धः ॥ दुःखं परस्य विशदप्रमया विजानन्
दुःखी भवेत् सकलविन्नहि किन्तवाप्तः ॥४२१॥ इत्थं वदन् स्वगृह एव जनैरुपास्यो
मीमांसको भवतु नो बुधमण्डपेऽपि ।। वाङ्मात्रतोऽत्र नहि सिद्धिमुपैति किञ्चि. युक्तिन का चिदपि तेन सती प्रयुक्ता ॥४२२॥