SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ॥ सर्वज्ञविचारः॥ (७७) - नोल्लङ्घनश्च शतशः क्रियमाणमेव मात्यन्तिकं क्वचिदपि प्रविलोक्यतेऽत्र ॥ व्यापारराशिसहकारिसमन्वयेऽपि नेत्रेण सौरभमतेजननं न दृष्टम् ॥४१२॥ भ्रान्तिन्तथा परगतामवबोद्धुमीशो भ्रान्तो भवेदपरथा नहि सर्ववित्स्यात् ॥ ज्ञानं यतः स्वविषयेण विना कृतं न बोधेऽवभासत इति प्रथितोऽत्र पन्थाः ॥४१३॥ प्रत्यक्षबाधिततयाऽप्यनुमा प्रतिष्ठां प्राप्नोति सर्वविदि नैव पराभ्युपेता ॥ किश्चानुमापि परकल्पितपुंसि सर्व ज्ञत्वापवादकतयाऽप्रतिघास्ति किन्नो ॥४१४॥ पुंस्त्वादसावहमिवाल्पषिदभ्युपेयो नो सर्वविन्न च तथागमसम्प्रणेता ॥. वक्तृत्वतोऽहमिव सोऽपि च सर्वविन्नो रागादिमानहमिवायमपि प्रमाता ॥४१५॥ पूर्वापरौ न समयौ निखिलज्ञयुक्तौ कालत्वतोऽभिनवकाल इव प्रसिद्धः ॥ देशान्तरे प्रकृतदेश इवास्ति नैव सर्वज्ञ इत्यनुमितीरवधारयान्तः ॥४१६॥ वक्तृस्वतो भवति तेन समानधर्मा किन्नास्मदादिरित एव भवेच्च सोऽपि ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy