SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ॥ सर्वज्ञविचार. ॥ (७५) तस्माद्यदा नयनतोऽस्य मतिस्तदा नो गन्धादिवस्तुविषया न च सर्ववित्त्वम् ॥ अक्षान्तरादपि जनियदि तस्य तत्राप्यक्षान्तरस्य विषयो विषयो न युक्तः ॥४०१॥ नो मानसश्च बहिरिन्द्रियमन्तरेण बाह्ये प्रवृत्तिमदतो न ततोऽपि तस्य । युक्ता जनिन्न च तथा विषयं विनैव प्रत्यक्षबोध उपपद्यत एष विहन् ॥ ४०२ ॥ नालौकिको भवति गौतमसम्मतोऽपि, सम्बन्ध इन्द्रियगणस्य समस्तभावैः ॥ प्रत्यक्षबोधजनकोऽभिमतो बुधानां तत्त्वेऽथवा सकल एव न सर्वविकिम ॥४०३॥ वाच्यत्वतस्सकलमेव समानभावात् सम्बद्धमत्र मनसो भवताम्मतेन ॥ तस्मात् समस्तविषयप्रतिभासनं कि नालौकिकाद् भवितुमर्हति सन्निकर्षात।।४०४॥ लिङ्गादयं यदि भवेदनुमानरूपो व्याप्तिग्रहः प्रथमतस्सकलेषु वाच्यः ।। नाध्यक्षरूप इह सोऽपि भवेद्धि तस्य लिङ्गान्तरप्रभवतैव मता त्वया स्यात् ॥४०५॥ तत्रानवस्थितिलतापरिवेष्टनान्न मुक्तिः कथञ्चिदपि ते भविताऽनुमायाम् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy