________________
(७४)
न्यायसिन्धौ.
सामर्थ्यवानिति न तत्समकालिकैश्च ज्ञातो भवेन्ननु जनैरपि तत्वदृष्टया ॥ ३९५ ॥ नो भिन्नकालपुरुषैर्व्यवधानभाग्भिः
सर्वज्ञता परगता विदिता ह्ययोग्या ॥ तामन्तरा त्वनुपपन्नमिहास्ति किञ्चिन्नवार्थतोऽपि तव सिद्धयतु येन विज्ञः ॥३९६॥ भावो ह्ययं भवति न प्रतिषेधदक्षा
भावप्रमाणविषयोऽस्य ततो न सिद्धिः॥ नैवोक्तभिन्नमिह तेऽपि मतं प्रमाणं
प्रामाणिकस्य स च केन प्रसिद्धिमेतु ॥३९७॥ नोत्पत्तमहति तथा सकलार्थबोधो हेतुं विना नियतदेशकतादिहानेः ॥ हेतुस्तु तस्य नयनादि यदीन्द्रियं स्यात्
प्रत्यक्षता ननु तदोपगता तव स्यात् ॥३९८॥ तत्त्वे न तस्य सकलार्थप्रकाशकत्वं नेत्रादिना नियमनाद्विषये स्वकीये ॥ यस्मान्न चाक्षुषमतिः प्रतिबन्धकानामुच्छेदतोऽप्यविषयेऽत्र जनस्य दृष्टा ॥ ३९९ ॥ यद्यन्यगोचरचरोऽपि भवेत् कदाचि
दक्षान्तरस्य विषयो न तदेन्द्रियाणि ॥ कल्प्यानि नेत्रप्रभृतीनि बहूनि यस्मास्पर्शेन्द्रियेण सकलेन्द्रियकार्यभावः ॥ ४०० ॥