________________
( ७२ )
न्यायसिन्धौ.
वक्ता प्रसिद्धयति विलक्षण एव लोके व्याप्तिस्तथैव नियता न विपर्ययेण ॥ ३८४ ॥ दृष्टार्थकञ्च वचनन्न जिनप्रणीतं बाधां प्रमाणनिकरेण यतो निजार्थे || स्याद्वादलाञ्छिततनौ भजते तदैक्यवाक्यात् तदन्यदपि मानतयैव मान्यम् ॥ ३८५ ॥ एतादृशेन वचनेन निजप्रणेतृ
सिद्ध कथन्न सकलार्थविदः प्रसिद्धिः || बाधप्रमाणविगमादपि किञ्च युक्ता
सर्वज्ञसिद्धिरनुमात्मतया प्रमाणम् ॥ ३८६|| यवृद्धितोऽपचयवानिह यः प्रसिद्धो
ऽस्यन्तप्रकर्षगमने ननु तस्य तस्य ॥ आत्यन्तिकक्षय इतस्सकलार्थविज्ञाद्रागादिदोषघटनाऽप्यतिदूरमात् ॥ ३८७॥
एतेन युक्तिनिकरोऽपि विभोः परस्य सर्वज्ञतापनयनेऽभिमतो न युक्तः ॥ तत्सम्मतं कथकपद्धतिमत्र युक्त्या - ssनीयोपहन्ति जिनदर्शनविज्ञ इत्थम् ||३८८ ॥
नन्वप्रमाणकमिहाभ्युपगन्तुमर्हम्
प्रामाणिकैः किमपि नो तत एव वाच्यम् ॥ सत्वे प्रमाणमिह सर्वविदः किमस्ति
प्रत्यक्षमत्र लभते न निजस्वरूपम् ॥ ३८९ ॥