________________
॥ सर्वज्ञविचार.॥
(७१)
एतद्वचो नहि विचारपथं बुधानां
मीमांसकस्य कथमप्यवगाहतेऽत्र। स्वार्थे न चेदयदि प्रमाणमसौ तदास्य विध्यङ्गताऽपि नियतस्य न भेदतः स्यात्॥३७९॥ सर्वस्य सर्वविधिबोधितकर्मयोगः स्यादर्थवादवचनस्य निरर्थकत्वे॥ बाध्यार्थकस्य यदि चान्यपरत्वमस्य
नैतावता सकलमेव निजार्थशून्यम् ॥३८०॥ सिद्धार्थकाच्च वचसः स्मृतिरेव कर्तु
न्नों चेत्तदा सुगतकर्तृकतादिसिद्धिः ॥ बौद्धागमादिषु कथं भविता तथा च
वेषोऽपि तेषु भवतामनिमित्तिकः स्यात् ॥३८१॥ सर्वज्ञ एव यदि कोऽपि भवेन्न वक्ता
युक्तस्तदा पुरुषदोषकृतस्तु दोषः ॥ शब्दे परं विदितसर्वपदार्थतत्त्वस्तीर्थङ्करो न भवतां श्रुतिगोचरः किम् ॥३८१ सर्वज्ञता वचनकर्तृतया विरुद्धा सिद्धा भवेद्यदि तदा न भवेत् स वक्ता। न त्वेतदस्ति वद काऽत्र तवास्ति युक्तिः सिद्धयेद्यया नहि पुमान्निखिलार्थविज्ञः ॥३८३॥ स्वार्थावगाहिमतिजन्यमिह प्रसिद्धं वाक्यं प्रमाणमिति तेन विलक्षणेन॥