________________
(७०)
न्यायसिन्धौ.
आक्षेपतो भवति नैव मतिस्तु शाब्दी
नो लक्षणाऽप्यनुपपत्तिमतिं विनाऽर्थे ॥३७३॥ सामान्यतो विरहितो न विशेष एव
शक्यस्तथाऽननुगमेन भवेत्परन्तु। एतद्वयं भवति भिन्नमभेदयोगि
संसृष्टमेव वचसामिह शक्यमिष्टम् ॥३७४॥ शक्तस्तथा भवति नानुगतस्वरूपो
नो व्यक्तिरूप इह कादिरसत्त्वयोगात्॥ सामान्यसंवलित एष विभिन्नरूपो
जन्योऽपि किन्नहि भवेद्गमकोऽर्थराशेः॥३७५॥ नित्यत्वतोऽस्ति वचसां यदि दोषमुक्तेन्! भ्रान्तिबुद्धिजनने पटुता तदा किम्।। तेनैव तेषु न भवेड्गुणयोगलभ्यं
प्रामाण्यमप्यनुमतं बुध ते मते तु ॥३७६॥ बौद्धागमादिषु यथा पुरुषस्य कर्तुः
स्मृत्या मता पुरुषकर्तृकता तथैव ।। वेदे स्मृतिनहि किमस्ति यतो न तस्य
कर्ता प्रसिद्धयति पुमान् तव नीतिभीतः॥३७७॥ सिद्धार्थकं च वचनन्न मतं प्रमाणं
मीमांसकस्य तत एव न कर्तसिद्धिः॥ विध्यंगतां स्तुतिपरत्वबलेन किन्तु तस्याभ्युपेत्य फलवत्त्वमपि प्रशस्तम् ॥३७८॥