________________
॥ वेदापौरुषेयत्वापाकरणम् ॥
(६९)
वायोर्यथैव गमनेऽपि न मध्यदेशे,
स्वारभ्भकावयवयोगविनाशजन्यः ॥ नाशस्तथैव वचनस्य भवेन्न नाशो, विश्लेषतोऽवयवकस्य विशेषबन्धात् ॥ ३६८ ॥ एतेन पौद्गलिकतोपगमे परेण,
प्राप्तिश्रुतेन्नहि भवेद्वचनस्य नाशात् ॥ द्रव्यान्तरप्रबलयोगत इत्यपास्तं, वायोन किन्तव मतेऽपि तथैव नाशः ॥३६९॥ शक्तिग्रहोऽस्ति ननु यस्य न सोऽस्ति शब्दस्तजन्यताऽभ्युपगमे व्यवहारकाले ॥ यो वर्ततेऽथ स भवेन्न गहीतशक्तिस्तस्मान्न शाब्दमतिराहतसम्प्रदाये ॥३७०॥ इत्यादिदोषघटनापि परप्रयुक्ता, स्यात्तस्य येन न मता वचनेषु जातिः ॥ कत्वादिका निखिलकादिगता तु भिन्नाभिन्ना समानपरिणामतया मता यैः ।। ३७१ ॥ तेषां न दोषकणतोऽपि जिनानुगानां, स्पर्शो मते भवति पौद्गलिकेऽपि शब्दे ॥ जातिं विना नहि तवापि घटादिकेऽर्थे,
शक्तिर्मताऽनुगतजात्यभिधाप्रलापिन् ॥ ३७२ ।। शक्या न जातिरिह वाहनदोहनादि- (युग्मम्) कार्यान्वयापगमतो हि विशेषभिन्ना।