SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ || वेदापौरुषेयत्वा पाकरणम् ॥ व्यङ्गोऽप्ययं यदि तु देशत एव तर्हि सर्वात्मना भवति देशगतोऽथ देशात् ॥ आधे विभुवलियो नियतैकदेशस्थित्याऽन्तिमे किमनवस्थितिदोषमुक्तिः॥३५७॥ (६७) सर्वात्मना यदि तथाऽत्र मतोऽथ कादिदेशान्तरस्थ पुरुषैरपि किन्न ताह ॥ तस्य श्रुतिर्भवतु वा निकटस्थितस्याप्यश्रावणन्तदिव किन्न तदेकभावे || ३५८ ॥ एकेन्द्रियग्रहणयोग्यतयाऽपि वर्णा व्यङ्गथा पृथङ्नियतवायुबलात्कथं स्युः ॥ तत्त्वे समाधिकरणेषु विभिन्नतो न व्यङ्ग्यत्वमत्र विबुधैरवलोकितं यत् ॥ ३५९ ॥ तस्मात्कथं वद भवेन्न यदैकवर्णोऽध्यक्षप्रथामुपगतो निखिलोऽपि कादिः ॥ तत्काल एव प्रमितेः पदवीं प्रपन्नो, युक्तन्न चावरणकल्पनमेषु युक्त्या ॥ ३६० ॥ नो वायवो वरणकारिण आप्तमान्या स्ते व्यञ्जकास्तव यतोऽभिमता बुधायच ॥ यद्व्यञ्जकं भवति तत्समजातिकन्नो दृष्टः क्वचिद्ररणकारितया च तस्य ॥ ३६१ ॥ शब्दे त्वयाssवरणकारिण आहताः किं श्रोत्रेऽथवा यदि पुरस्सरकल्प इष्टः ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy