________________
स्याहादमञ्जरी।
६६ इत्यादिः वेदवाक्यैरपि तत्सिद्देः कृत्रिमेणापि आगमेन तस्यैव पतिपादनात् उक्तं च । सर्व वै खल्विदं ब्रह्म नेह नानास्ति किं चन । आरामं तस्य पश्यन्ति न तत्पश्यति कश्चन इति॥
प्रमाणतस्तस्यैव सिद्धेः परमपुरुष एक एव तत्वं सकलभेदानां तदिवत्तत्वात् तथा हि सर्वे भावा ब्रह्मविवर्त्ताः सत्वैकरूपणान्वितत्वात् यदापणावितं तत्तदात्मकमेव यथा घटघटीशरावोदञ्चनादयो मृपेणैकेनान्विता मृविवर्त्ताः सत्वैकरूपगान्वितं च सकलं वस्त्विति सिद्ध ब्रह्मविवत त्वं निखिलभेदानामिति तदेतत्मवं मदिरारसास्वादगगदोहदितमिवाभासते विचारासहत्वात् सर्वं हि वस्तु पमाणसिद्ध न तु वाङ्मात्रेण अद्वैतमते च प्रमाणमेव नास्ति तत्सद्भावे इंतपसङ्गात् अहतसाधकस्य प्रमाणस्य हितोयस्य सद्भावात् अथ मतं लोकप्रत्यायनाय तदपेक्षया प्रमाण मप्यभ्युपगम्यते तदसत् त्वन्मते लोकस्यैवासंभवात् एकस्यैव नित्यनिरंशस्य परब्रह्मण एव सत्वात् अथास्त यथाकथंचित्पमाणमपि तत्किंप्रत्यक्षमनुमानमागमो वा त साधकं प्रमाणमुररीक्रियते न तावत्प्रत्यक्षं तस्य समस्तवस्तजातगतभेदम्यैव प्रकाशकत्वात् आबालगोपालं तस्यैव प्रतिभासनात् बच्च निर्विकल्पकं प्रत्यक्षं तदावेदकमित्युक्तं तदपि न सम्यक् तस्य प्रामाण्यानभ्युपगमा