________________
स्याहादमञ्जरी। ८८ त्मनि क्रियाविरोधान्न हि सुशिक्षितो ऽपि नटवटः स्वस्कन्धमधिरोढुं पटु नं च सुतीक्ष्णाप्यसिधारा खं छत्तुमाहितव्यापारा ततश्च परीक्षमेव ज्ञानमिति तदेतन्न सम्यक् यत: किमुत्पत्तिः म्बात्मनि विरुध्यते जप्तिा यत्पत्तिः सा विरुध्यतां न हि वयमपि जानमात्मानमुत्पादयतीति मन्यामहे अथ जप्ति नेयमात्मनि विरुदा तदात्मनैव ज्ञानस्य स्वहेतुभ्य उत्पादात् पकाशात्मनैव पदीपालोकस्य अथ पकाशात्मैव पदीपालोक उत्पन्न इति पर प्रकाशको ऽस्तु आत्मानमध्येतावन्मात्र व प्रकाशयतीति कोऽयं न्याय इति चेत्तत्किं तेन वराकणाप्रकाशितेनैव स्थातव्यम् आलोकान्तराबाऽस्य प्रकाशेन भवितव्यं प्रथमे प्रत्यक्षबाधो हितौये ऽपि सैवानवस्थापत्तिश्च अथ नामौ स्वमपेक्ष्य कमतया चकास्तीत्यस्वप्रकाशक: स्वीक्रियते आत्मानं न प्रकाशयतीत्यर्थः प्रकाशरूपतया उत्पन्नत्वात्स्वयंप्रकाशत एवेति चैच्चिरंजीव न हि वयमपि जानं कर्मतयैव प्रतिभासमानं स्वसंवेद्यं ब्रमः ज्ञानं स्वयं प्रतिभामत इत्यादावकर्मकस्य तस्य चकासनात् यथा तु ज्ञानं स्वं जानामीति कर्नतयापि तद्वाति तथा पदोप: स्वं प्रकाशयतीत्ययमपि कर्मतया प्रथत एवं यस्तु स्वात्मनि क्रियाविरोधो दोष उद्भावितः सोऽयुक्तो ऽनुभवसिद्ध ऽर्थे विरोधासिद्दे : घटमहं जानामौत्यादौ कट कर्मवत् जप्तेरप्पवभासमानत्वात् न चापत्यक्षोप