________________
स्याद्वादमञ्जरौ ।
स्फुरितं चेष्टितं स्वपुत्रघातान्नृपतित्त्वलिप्सासत्र - चारि निजसुतनिपातनेन राज्यप्राप्तिमनोरथ सहशं यथा किल कश्चिदविपश्चित्पुरुषः परुषाशयतया निजमङ्कजं व्यापाद्य राज्यश्रियं प्राप्तुमीहते न च तस्य तत्प्राप्तावपि पुत्रघातपातककलङ्कपङ्कः क्वचि दुपयाति एवं वेदविहितहिंसया देवतादिप्रीसिद्दावपि हिंसासमुत्थं दुष्कृतं न खलु पराहन्यतेऽव च लिप्साशब्दं प्रयुञ्जानः स्तुतिकारो ज्ञापयति यथा तस्य दुराशयस्यासदृशतादृक्कर्माणा निर्मूलितसत्कर्मणो राज्यपाप्तौ केवलं समोहामात्रमेव न पुनस्तत्सिद्धिरेवं तेषां दुर्वादिनां वेदविहितहिंसामनुतिष्टतामपि नृपूज्यत्वे देवतादिपरितोषणे च मनोराज्यमेव न पुनस्तेषामुत्तमजनपूज्यत्त्वमिन्द्रादिदिवौकसां च तृप्तिः प्रागुक्तयुक्तया निराकृतत्वादिति काव्यार्थः ॥११॥
८१
सांप्रतं नित्यपरोक्षज्ञानवादिनां मोमांसकभेदभट्टानामेकात्मसमवायिज्ञानान्तरवेद्यज्ञानवादिनां च योगानां मतं विकुद्वयन्नाह
स्वार्थावबोधक्षम एव बोधः प्रकाशते नार्थकथा ऽन्यथा तु ॥ परे परेभ्यो भयतस्तथापि प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥ १२ ॥