________________
७४
66.
A
स्याद्वादमञ्जरौ । आत्मनः प्रतिकूलानि परेषां न समाचरेत्/३/प्रकट एवं स्ववचनविरोधस्तथाहि हिंसा चेहर्महेतु: कथं धर्महेतुश्चेहिंसा कथं "श्रूयतां धर्मसर्वस्वं श्रुत्वा चै. वावधार्यता इत्यादिर्न हि भवति माता च बन्ध्या चेति हिंसा कारणं धर्मस्तु तत्कार्यमिति पराभिप्राय: नचायं निरुपायः यतो यद्यस्थान्वयव्यतिरेकानुविधत्ते तत्तस्य कार्यं यथा मृत्पिण्डादेर्घटादिः न च धर्मो हिंसात एव भवतीति प्रातोतिकं तपोविधानदानध्यानादीनां तदकारणत्वप्रसङ्गात् अथ न वयं सामान्येन हिंसां धर्महेतुं ब्रूमः किं तु विशिष्टामेव विशिष्टा च सैव या वेदविहितेति चेत् ननु तस्या धर्महेतुत्वं किं बध्यजी - वानां मरणाभावेन मरणे ऽपि तेषामार्त्तध्यानाभावात्सुगतिलाभेन वा नाद्यः पक्षः प्राणत्यागस्य तेषां साचादद्वेक्ष्यमाणत्त्वात् न द्दितोय: परचेतोवृत्तीनां दुलक्षतयाss ध्यानाभावस्य वाङ्मात्रत्वात् प्रत्युत हा कष्टमस्ति न कोऽपि कारुणिकः शरणमिति स्वभाषया विरसमारसत्सु तेषु वदनदैन्यनयनतरलतादीनां लिङ्गानां दर्शनात् दुर्ध्यानस्य स्पष्टमेव निष्टङ्कामा -. नत्वात् अथेत्यमाचचौथाः यथा श्रयःपिण्डो गुरुतया मज्जनात्मकोऽपि तनुतरपत्रादिकरणेन संस्कृतः सन् जलपरिप्लवते यथा च मारणात्मकमपि विषं मन्वादिसंस्कारविशिष्टं सद्गुणाय जायते यथा वा दहनखभावोऽपि अग्निः सत्यादिप्रभाव प्रतिहतशक्तिः सन्न हि प्रदहति एवं मन्वादिविधिसंस्कारान्न खलु वेदविहिता हिंसा दोषपोषाय न च तस्याः कुत्सि