________________
स्थाहादमचरी।
छलजातिप्रधानो यः स विवाद इति स्मृतः ॥
तेन ग्रहिल इव ग्रहगृहीत इव विवादग्रहिलस्तव यथा ग्रहाद्यपस्मारपरवशः पुरुषो यत्किं चन प्रलापी स्यादेवमयमपि जन इति भावः तथा वितण्डा प्रतिपक्षस्थापनाहीनं वाक्यं वितगद्यते पाहन्यतेऽनया प्रतिपक्षसाधनमिति व्युत्पत्तेः "अभ्युपेत्य पक्षं यो न स्थापयति स वैतण्डिक इत्युच्यते" इति न्यायवार्तिकं वस्तुतस्तु अपरामुष्टतत्त्वातत्वविचारं मौखयं वितण्डा तत्र यत्पाण्डित्यमविकलं कौशलं तेन कण्डलमिव कण्डूलं मुखं लपनं दस्य म तथा तस्मिन् कण्ड: खज: कगरस्यास्तीति कण्डूलः सिध्मादित्त्वा नमधीयो लप्रत्ययः यथा किलान्तरुत्पन्न कृमिकलजनितां कण्डूति निरोडमपारयन् पुरुषो व्याकुलतां कलयति एवं तन्मुखमपि वितण्डापाण्डित्येन असम्बदप्रलाप चापलमाकलयत् कण्डलमित्युपचर्यते एवं च घरसत एव खस्वाभिमतव्यवस्थापनाविसंघठलो वैतण्डिकलोकस्तत्व च तत्परमाप्तभूतपुरुषविशेषपरि. कल्पितपरवञ्चनप्रचुरवचनोपदेशश्चेत्महायः समजनि तदा स्वत एव ज्वालाकलापजटिले प्रज्वलति हुताशन इब कृतो ताहुतिप्रक्षेप इति तैश्च भवाभिनन्दिभिर्वादिभिरेताशोपदेशदानमपि तस्य मुनेः कारुणिकत्वकोटावारोपितं तथा चाहुः ।
दुःशिक्षितकुतर्काशलेशवाचालिताननाः ।। शक्याः किमन्यथा जेतुं वितण्डाटोपमण्डिताः ॥