________________
५४
स्थाद्वादमञ्जरौ। सुखवाच्यतायां बाधकाभावात् अयं रोगादिप्रमुक्तः सुखी जात इत्यादिवाक्येषु च सुखौतिप्रयोगस्य पौनरुत्यप्रसङ्गाच्च दुःखाभावमारस्य रोगादिप्रयुक्त दूतीयतैवगतत्त्वान्न च भवदुदीरितो मोक्ष: पुंसामुपादेयतया संमतः को हि नाम शिलाकल्पमपगतसकलसुखसंवेदनमात्मानमुपपादयितुं यतेत दुःखसंवेदनरूपत्वादस्य सुखदुःखयोरेकस्याभावे ऽपरस्यावश्यभावात् अत एव बदुपहासः श्रूयते ।
वरं वृन्दावने रम्ये क्रोष्टत्वमभिवाञ्छितम् । न तु वैशेषिकी मुक्तिं गौतमो गन्तु मिच्छति ॥
सोपाधिकसविधिकपरिमितानन्दनिष्यन्दात् खर्गादप्यधिकं तदिपरौतानन्दमम्मानज्ञानं च मोक्षमा. चक्षते विचक्षणाः यदि तु जड: पाषाणनिर्विशेष एव तस्थामवस्थायामात्मा भवेत् तदलमपवर्गेण संसार एव वरमस्तु यत्र तावदन्तरान्तरापि दुःखकलुषितमपि कियदपि सुखमनुभुज्यते चिन्त्यतां तावकिमल्यसुखानुभवो भव्य उत सर्वसुखोच्छेद एव अथास्ति तथाभूते मोक्षे लाभातिरेक: प्रेक्षादक्षाणां तेह्येवं विवेचयन्ति संसारे तावत् दुःखास्पृष्टं सुखं न सम्भवति दुःखं चावश्यं हेयं विवेकानं चानयोरेकभाजनपतितविषमधुनोरिव दुःशक्यमत एव हे अपि त्यज्येते अतश्च संसारान्मोक्षः श्रेयान् यतोऽत्र दुःखं सर्वथा न स्याहरमियतौ कादाचित्कसुखमात्रापि त्यता